एकदा नारदोऽगच्छद्वासवं द्रष्टुमुत्सुकः ।। पूजितः परया भक्त्या कृतासनपरिग्रहम् ।। ६ ।।
मुनिं पप्रच्छ बलहा दूर्वामाहात्म्यमादरात्।।
।। इंद्र उवाच ।।
किमर्थं देवदेवस्य गणेशस्य महात्मनः ।। विशेषतः प्रिया ब्रह्मन् महादूर्वांकुरा मुने ।। ७ ।।
।। मुनिरुवाच।।
कथयामि यथाज्ञातं दूर्वामाहात्म्यमुत्तमम्।। स्थावरे नगरे पूर्वं कौंडिन्योऽभून्महामुनिः ।। ८ ।।
उपासको गणेशस्य तपोबलसमन्वितः।। रमणीयतरस्तस्य ग्रामदक्षिणमागतः ।। ९ ।।
आश्रमः सुमहानासील्लतावृक्षसमन्वितः।। सरांसि फुल्लपद्मानि यत्रासन्सुमहांति च ।। १० ।।
भ्रमरैरुपजुष्टानि हंसकारंडकैरपि।। चक्रवाकैर्बकैश्चैव कच्छपैर्जलकुक्कुटैः ।। ११ ।।
स तु ध्यानरतस्तत्र प्रारभत्तप उत्कटम् ।। पुरः स्थाप्य महामूर्तिं गणेशस्य चतुर्भुजाम् ।। १२ ।।
सुप्रसन्नां सुवरदां दूर्वायुक्तां सुपूजिताम्।। जजाप परमं मंत्रं षडर्णं देवतोषकम् ।। १३ ।।
पप्रच्छसंशयाविष्टा पत्नीनाम्नाश्रयास्य ताम्।।
।। आश्रयोवाच।।
स्वामिन्गजानने देवे दूर्वाभारं दिनेदिने ।। १४ ।।
समर्पयसिकस्मात् त्वं तृणैः कोऽपि न तुष्यति।। अस्ति चेत् पुण्यमेतेन तन्मे त्वं कृपया वद ।।१५।।
।। कौंडिण्य उवाच।।
श्रुणु प्रिये प्रवक्ष्यामि दूर्वामाहात्म्यमुत्तमम्।। धर्मस्य नगरे पूर्वमासीदुत्सव उत्तमः ।। १६ ।।
सर्वे देवाः सगंधर्वाआहूताश्चाप्सरोगणाः ।। सिद्धचारणनागाश्च मुनयो यक्षराक्षसाः ।। १७ ।।
तिलोत्तमाय नृत्यंत्याः प्रावारान्येपतत् भुवि।। ददर्श तस्याः रो न्ययमः कुचौ चारू बृहत्तमौ ।। १८ ।।
अभवत् कामसंतप्तो विश्रांतो निरपत्रपः।। इयेषालिंगितुं तस्याश्चुंबितुं च तदाननम् ।। १९ ।।
सदसो निर्गतस्तस्माल्लज्जयाधोमुखोयमः।। गच्छतस्तस्यरेतश्च स्खलितं पतितं भुवि ।। २० ।।
ज्वालामाल्यभवत्तस्मात् पुरुषो विकृताननः।। कुर्वन्दंष्ट्रारवं क्रूरं त्रासयन् भुवनत्रयम् ।। २१ ।।
ददाह पृथिवीं सर्वां जटाभिर्गगनं स्पृशत्।। चकंपे तस्य शब्देन त्रिलोकीमानसं भृशम् ।। २२ ।।
तदैव विष्णुमगमंस्ते तु सर्वे सभासदः ।। स्तुतिं नानाविधां कृत्वा नानास्तोत्रैर्यथामति ।। २३ ।।
प्रार्थयामासुरव्यग्राः सर्वलोकहिताय तम्।। स तैः सर्वैः समगमद्गजाननमनामयम् ।। २४ ।।
तस्य नाशं ततो ज्ञात्वा तुष्टुवुः सर्व एव तम् ।।
।। देवामुनयश्चोचुः।।
नमोऽविघ्नस्वरूपाय नमस्ते विघ्नहारिणे ।। २५ ।।
नमस्ते सर्वरूपाय सर्वसाक्षिन्नमोऽस्तुते।। नमो देवाय महते नमस्ते जगदादये ।। २६ ।।
नमः कृपानिधे तुभ्यं जगत्पालनहेतवे।। नमस्ते पूर्णतमसे सर्वसंहारकारिणे ।। २७ ।।
नमस्ते भक्तवरद सर्वदात्रे नमोनमः।। नमस्तेऽनन्यशरण सर्वकामप्रपूरक ।। २८ ।।
नमस्ते वेदविदुषे नमस्ते वेदकारिणे।। कमन्यं शरणं यामः को नु नः स्याद् भयापहः ।। २९ ।।
अकाल एव प्रलयः कथं लब्धो जनैरयम्।। हा गजानन देवेश हा हा विघ्नहराव्यय ।। ३० ।।
सर्वेषां मरणे प्राप्ते कथमस्मानुपेक्षसे।। इति तद्वचनं श्रुत्वा करुणाब्धिर्गजाननः ।। ३१ ।।
आविरासीत् पुरस्तेषां शिशुरूपोऽरिभीतिहा।। बिभ्रत् कमलनयने शतचंद्रनिभाननम् ।। ३२ ।।
कोटिसूर्यप्रभाजालः कोटिकंदर्पजिद्वपुः ।। कुंदकुड्भलशोभाजिद्दशनोधरबिंबजित् ।। ३३ ।।
उन्नसो भृकुटीचारुनयनः कंबुकंठयुक्।। विशालवक्षा जानुस्पृग्भुजद्वययुतो बली ।। ३४ ।।
गंभीरनाभिविलसदुदरोऽतिलसत्कटिः।। रंभाशोभापरिस्पर्द्धिगुरूरुश्चारुजानुयुक् ।। ३५ ।।
सुचारुजंघागुल्फश्रीविलसत्पादपद्मकः।। नानालंकारशोभाढ्यो महार्घवसनावृतः ।। ३६ ।।
एवं देवं निरीक्ष्यैव नगरस्य पुरोभुवि।। उत्तस्थुर्देवमुनयो जयशब्दपुरःसरम् ।। ३७ ।।
प्रणेमुर्दंडवद् भूमौ शक्रं देवगणा यथा ।।
।। देवाऋषय ऊचुः।।
को भवान्कुत आयातः किं कार्यं वद नो विभो ।। ३८ ।।
वयमेवं विजानीमो ब्रह्मैव बालरूपधृक्।। अनलासुरसंत्रासात्त्यक्त्वा कर्माणि संस्थितान् ।। ३९ ।।
आविर्भूतं तु नस्त्रातुं दुष्टसंहारकारकम् ।। इति तद्वचनं श्रुत्वा शिशुरूपी गजाननः ।। ४० ।।
बभाषे हास्यवदनः सर्वान्देवमुनीन्प्रति।।
।। बाल उवाच ।।
भवंतो ज्ञानसंपन्ना यदुक्तं सत्यमेव तत् ।। ४१ ।।
अहं तस्य वधायैव दुष्टस्य परपीडिनः ।। निजेच्छया बालरूपी वेगेनागां सुरर्षयः ।। ४२ ।।
उपायं वच्मि वस्तस्य वधे तं कुरुतानघाः।। सर्वैर्भवद्भिस्तं दृष्ट्वा नोदनीयो बलादहम् ।। ४३ ।।
द्रष्टव्यं कौतुकं तस्य मम चैव महत्तरम्।। एवं श्रुत्वा कृपावाक्यं सर्वे ते हर्षनिर्भराः ।। ४४ ।।
ऊचुः परस्परं सर्वे न जानीमोऽस्य पौरुषम् ।। ईश्वरो बालरूपेण कर्तुमस्यवधं नु किम् ।। ४५ ।।
अवतीर्णो भवेत्त्रातुं पीडितं भुवनत्रयम्।। इत्थमुक्त्वा तु ते सर्वे प्रणेमुः सादरं च तम् ।। ४६ ।।
एतस्मिन्नेव काले तु कालानलस्वरूपधृक् ।। दहन्दशदिशो भक्षन्नरलोकं समाययौ ।। ४७ ।।
कोलाहलो महानासील्लोकानां क्रंदतां तदा।। दृष्ट्वैव सर्वे मुनयः पलायनपरा ययुः ।। ४८ ।।
तं च ते मुनयः प्रोचुः शीघ्रं कुरु पलायनम्।। नोचेध्दिंसिष्यते त्वाद्य सुमहाननलो ध्रुवम् ।। ४९ ।।
तिमिंगिलो यथा मीनानुरगान्गरुडो यथा ।। इति तद्वचनं श्रुत्वा परमात्मागजाननः ।। ५० ।।
बालरूपधरोऽतिष्ठत्पर्वतो हिमवानिव।। सुरर्षयो ययुर्दूरात्त्यक्त्वा तत्रैव बालकम् ।। ५१ ।।
इतिश्रीगणेशपुराणे उपासनाखंडे दूर्वामाहात्म्ये त्रिषष्टितमोऽध्यायः ।।६३।।
।। आश्रया उवाच ।।
देवर्षिषु प्रयातेषु बाले चाचलवत्स्थिते ।। किमासीत्कौतुकं तत्र बालकालानलोद्भवम् ।। १ ।।
तत्सर्वं विस्तरान्मह्यं कथयाशु महामुने।।
।। नारद उवाच ।।
एवं तयाकृतप्रश्नः कौंडिन्यो मुनिसत्तमः ।। २ ।।
यदब्रवीच्छचीभर्तस्तत्त्वं शृणु मयोदितम्।।
।। कौंडिन्य उवाच ।।
अचलाचलवद्बाले स्थिते तस्मिन्गजानने ।। ३ ।।
कालानल इवाक्षोभ्य आययौ सोऽनलासुरः ।। तस्मिन्क्षणे चला वापि चचालाचलसंयुता ।। ४ ।।
नभोदध्वानसदृशघनगर्जितनिस्वनैः।। निपेतुर्वृक्षशाखाभ्यः पक्षिवृंदानि भूतले ।। ५ ।।
निर्वारिर्वारिधिर्जातो वृक्षा उन्मूलितास्तदा ।। प्रकंपनेन महता न प्राज्ञायत किंचन ।। ६ ।।
तस्मिन्नेव क्षणे देवो बालरूपी गजाननः ।। दधारानलरूपं तं दैत्यं मायाबलेन हि ।। ७ ।।
प्राशत्सर्वेषु पश्यत्सु जलधिं कुंभजो यथा।। ततः सोऽचिंतयद्देवो यद्ययं जठरेऽगतः ।। ८ ।।
दहेत्त्रिभुवनं कुक्षौ दृष्टमाश्चर्यमुत्कटम्।। ततः शक्रो ददौ चंद्रं तस्य वह्नेः प्रशांतये ।। ९ ।।
भालचंद्रेति तं देवास्तुष्टुवुर्मुनयोऽपि च।। तथापि न च शांतोऽभूदनलः कंठमध्यगः ।। १० ।।
ततो ब्रह्मा ददौ सिद्धिबुद्धी मानसकन्यके।। रंभोरू पद्मनयने केशशैवलसंयुते ।। ११ ।।
चंद्रवक्त्रेऽमृतगिरौ कूपनाभी सरिद्वली ।। मृणालमध्ये प्रवालहस्ते शैत्यस्य कारणे ।। १२ ।।
उवाचेमे समालिंग्य तव शांतोऽनलो भवेत्।। तयोरालिंगने शांतः किंचिदेव हुताशनः ।। १३ ।।
ददौ सुकोमलं तस्मै कमलं कमलापतिः ।। पद्मपाणिरिति प्रोचुस्तं सर्वे सुरमानुषाः ।। १४ ।।
अशांताग्नौ तु वरुणः सिषेच शीतलैर्जलैः।। सहस्रफणिनं नागं गिरिशोऽस्मै ददावथ ।। १५ ।।
तेन बद्धोदरो यस्माद व्यालबद्धोऽदरो भवत्।। तथापि शैत्यं नापेदे कंठोऽस्यानलसंयुतः ।। १६ ।।
अष्टाशीतिसहस्राणि मुनयस्तं प्रपेदिरे ।। अमृता इव दूर्वास्ते प्रत्येकं सेकविंशतिम् ।। १७ ।।
आरोपयन्मस्तकेऽस्य ततः शांतोऽनलो भवत् ।। तुतोष परमात्मासौ दूर्वांकुरभरार्चितः ।। १८ ।।
एवं ज्ञात्वा तु ते सर्वे पुपूजुस्तं गजाननम् ।। दूर्वांकुरैरनेकैस्तैर्जहर्षासौ गजाननः ।। १९ ।।
उवाच च मुनीन्देवान्मत्पूजा भक्तिनिर्मिता।। महती स्वल्पिका वापि वृथा दूर्वांकुरैर्विना ।। २० ।।
विना दूर्वांकुरैः पूजाफलं केनापि नाप्यते।। तस्मादुषसि मद्भक्तैरेका वाप्येकविंशति ।। २१ ।।
भक्त्या समर्पिता दूर्वा ददातियत्फलं महत्।। न तत्क्रतुशतैर्दानैर्व्रतानुष्ठानसंचयैः ।। २२ ।।
तपोभिरुग्रैर्नियमैः कोटिजन्मार्जितैरपि।। प्राप्यते मुनयो देवा यद्दूर्वाभिरवाप्यते ।। २३ ।।